Wednesday, June 15, 2011

इन्द्रकृत महालक्ष्म्यष्टकस्त्रोत्रम्‌ – Mahalakshmi Ashtakam


mahalaxmi1 298x300 dipawali lakshmi puja specialMahalakshmi Ashtakam

अथ महालक्ष्म्यष्टकस्त्रोत्रम्‌

इन्द्र उवाच,

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।

शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥ १॥

नमस्ते गरुडारूढे कोलासुरभयङ्करि ।

सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ २॥

सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि ।

सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ३॥

सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।

मन्त्रपूते सदा देवि महालक्ष्मि नमोऽस्तुते ॥ ४॥

आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।

योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥ ५॥

स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ।

महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ६॥

पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।

परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥ ७॥

श्वेताम्बरधरे देवि नानालङ्कारभूषिते ।

जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥ ८॥

महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।

सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९॥

एककाले पठेन्नित्यं महापापविनाशनम् ।

द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥ १०॥

त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।

महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥ ११॥

॥ इतीन्द्रकृतं महालक्ष्म्यष्टकस्त्रोत्रं सम्पूर्णम्‌ ॥


http://www.riiti.com/1282/shri_lakshmi_stav_mahalaxmi_ashtakam

Monday, June 13, 2011

सदा-शिव-कवचं

।श्रीदेवी उवाच।।
भगवन् देव-देवेश ! सर्वाम्नाय-प्रपूजित !
सर्वं मे कथितं देव ! कवचं न प्रकाशितम्।।१
प्रासादाख्यस्य मन्त्रस्य, कवचं मे प्रकाशय।
सर्व-रक्षा-करं देव ! यदि स्नेहोऽस्ति मां प्रति।।२
।।श्री भगवानुवाच।।
विनियोगः- ॐ अस्य प्रासाद-मन्त्र-कवचस्य श्री वाम-देव ऋषिः। पंक्तिश्छन्दः। सदा-शिवः देवता। सकलाभीष्ट-सिद्धये जपे विनियोगः।
ऋष्यादि-न्यासः- श्री वाम-देव ऋषये नमः शिरसि। पंक्तिश्छन्दसे नमः मुखे। सदा-शिवः देवताय नमः ह्रदि। सकलाभीष्ट-सिद्धये जपे विनियोगाय नमः सर्वाङगे।
।।मूल-पाठ।।
शिरो मे सर्वदा पातु, प्रासादाख्यः सदा-शिव।
षडक्षर-स्वरुपो मे, वदनं तु महेश्वरः।।१
पञ्चाक्षरात्मा भगवान्, भुजौ मे परि-रक्षतु।
मृत्युञ्जयस्त्रि-बीजात्मा, आस्यं रक्षतु मे सदा।।२
वट-मूलं सनासीनो, दक्षिणामूर्तिरव्ययः।
सदा मां सर्वतः पातु, षट्-त्रिंशार्ण-स्वरुप-धृक्।।३
द्वा-विंशार्णात्मको रुद्रो, दक्षिणः परि-रक्षतु।
त्रि-वर्णात्मा नील-कण्ठः, कण्ठं रक्षतु सर्वदा।।४
चिन्ता-मणिर्बीज-रुपो, ह्यर्द्ध-नारीश्वरो हरः।
सदा रक्षतु मे गुह्यं, सर्व-सम्पत्-प्रदायकः।।५
एकाक्षर-स्वरुपात्मा, कूट-व्यापी महेश्वरः।
मार्तण्ड-भैरवो नित्यं, पादौ मे परि-रक्षतु।।६
तुम्बुराख्यो महा-बीज-स्वरुपस्त्रिपुरान्तकः।
सदा मां रण-भुमौ च, रक्षतु त्रि-दशाधिपः।।७
ऊर्ध्वमूर्द्धानमीशानो, मम रक्षतु सर्वदा।
दक्षिणास्यं तत्-पुरुषः, पायान्मे गिरि-नायकः।।८
अघोराख्यो महा-देवः, पूर्वास्यं परि-रक्षतु।
वाम-देवः पश्चिमास्यं, सदा मे परि-रक्षतु।।९
उत्तरास्यं सदा पातु, सद्योजात-स्वरुप-धृक्।
इत्थं रक्षा-करं देवि ! कवचं देव-दुर्लभम्।।१०
।।फल-श्रुति।।
प्रातःकाले पठेद् यस्तु, सोऽभीष्टं फलमाप्नुयात्।
पूजा-काले पठेद् यस्तु, कवचं साधकोत्तमः।।११
कीर्ति-श्री-कान्ति-मेधायुः सहितो भवति ध्रुवम्।
तव स्नेहान्महा-देवि ! कथितं कवचं शुभम।।१२
।।इति भैरव-तन्त्रे सदा-शिव-कवचं सम्पूर्णं।।